मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् ७

संहिता

सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः ।
भवा॑ नः सोम॒ शं हृ॒दे ॥

पदपाठः

सु॒ऽशेवः॑ । नः॒ । मृ॒ळ॒याकुः॑ । अदृ॑प्तऽक्रतुः । अ॒वा॒तः ।
भव॑ । नः॒ । सो॒म॒ । शम् । हृ॒दे ॥

सायणभाष्यम्

हे सोमपीतस्त्वं नः अस्माकं हृदे हृदये वर्तमानः शं सुखं भव । किंच नः अस्माकं सुशेवः सुसुखः गृळयाकुः सुखकर्ता अदृप्तक्रतुः असमाप्तकर्मा पुनः पुनः यागप्रवर्तकः अवातः निश्चलश्च भवेत्यन्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४