मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् ८

संहिता

मा नः॑ सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् ।
मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥

पदपाठः

मा । नः॒ । सो॒म॒ । सम् । वी॒वि॒जः॒ । मा । वि । बी॒भि॒ष॒थाः॒ । रा॒ज॒न् ।
मा । नः॒ । हार्दि॑ । त्वि॒षा । व॒धीः॒ ॥

सायणभाष्यम्

हे सोमपीतस्त्वं नोस्मान्मासंवीविजश्चलितांगान्माकार्षीः । राजन् सोमास्मान् माविबीभिषथाः भीतान्माकृरु । नोस्माकं हार्दि हृदये त्विषा दीप्त्या मावधी: ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४