मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८०, ऋक् १

संहिता

न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो ।
त्वं न॑ इन्द्र मृळय ॥

पदपाठः

न॒हि । अ॒न्यम् । ब॒ळा । अक॑रम् । म॒र्डि॒तार॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥

सायणभाष्यम्

हे शतक्रतो त्वत्तोन्यं मर्डितारं सुखयितारं बळा बट् तन्नह्यकरं नकरोमि तस्मात् हे इन्द्र त्वं नोस्मान्मृळय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५