यो न॒ः शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये ।
स त्वं न॑ इन्द्र मृळय ॥
यः । नः॒ । शश्व॑त् । पु॒रा । आवि॑थ । अमृ॑ध्रः । वाज॑ऽसातये ।
सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥
हे इन्द्र यस्त्वं अमृधः शत्रुभिरहिंसितः सन् पुरा पूर्वस्मिन्काले शश्वत् बहुवारं नोस्मान् आविथ रक्षितवानसि । सत्वं नोस्मान्वाजसातये अन्नदानार्थं यद्वा अन्नसंसजनार्थं मृळय सुखय ॥ २ ॥