मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८०, ऋक् ३

संहिता

किम॒ङ्ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि ।
कु॒वित्स्वि॑न्द्र ण॒ः शकः॑ ॥

पदपाठः

किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नः । सु॒न्वा॒नस्य॑ । अ॒वि॒ता । इत् । अ॒सि॒ ।
कु॒वित् । सु । इ॒न्द्र॒ । नः॒ । शकः॑ ॥

सायणभाष्यम्

अंग हे इन्द्र त्वं रध्रचोदनः रध्रं राधकं चोदयतीति रध्रचोदनः तादृशस्त्वं सुन्वानस्यावितेदसि रक्षक एव भवसि । अतोनोस्माकं कुविद्वहु सु सुष्ठु शकः अशकःशक्तोभव बहुधनं कुर्वित्यर्थः अस्मान्वा बहुकुर्विति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५