मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८०, ऋक् ४

संहिता

इन्द्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्सन्त॑मद्रिवः ।
पु॒रस्ता॑देनं मे कृधि ॥

पदपाठः

इन्द्र॑ । प्र । नः॒ । रथ॑म् । अ॒व॒ । प॒श्चात् । चि॒त् । सन्त॑म् । अ॒द्रि॒ऽवः॒ ।
पु॒रस्ता॑त् । ए॒न॒म् । मे॒ । कृ॒धि॒ ॥

सायणभाष्यम्

हे इन्द्र नोरथं प्राव प्ररक्ष । कीदृशं रथं पश्चाच्चित्सन्तं चिदप्यर्थे अस्मत्समानरथानां पश्चाद्भूतमप्येनं मे रथं हे अद्रिवो वज्रवन्निन्द्र पुरस्ताद्वर्तमानं कुधि कुरु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५