मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८०, ऋक् ७

संहिता

इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् ।
इ॒यं धीरृ॒त्विया॑वती ॥

पदपाठः

इन्द्र॑ । दृह्य॑स्व । पूः । अ॒सि॒ । भ॒द्रा । ते॒ । ए॒ति॒ । निः॒ऽकृ॒तम् ।
इ॒यम् । धीः । ऋ॒त्विय॑ऽवती ॥

सायणभाष्यम्

हे इन्द्र त्वं दृह्यस्व दृढोभव संग्रामे त्वं पूरसि पूरयसि यथा पुरमविचलितं तद्वत्त्वमसि । अथवास्मदीये यज्ञे दृढोभव त्वं पुनरन्ययज्ञं जिगमिषुर्माभूः त्वं पूः पूरकः कामानामसि । किमत्र विद्यतइति चेत् उच्यते-निष्कृतं निष्कर्तारं ते त्वां भद्रा कल्याणी इयं धीः स्तुतिः क्रिया वा ऋत्वियावती ऋतुशब्दः कालोपलक्षकः स्वकालोपेता सती एति गच्छति । यद्वा ते निष्कृतं स्थानमेति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६