मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८०, ऋक् ९

संहिता

तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि ।
आदित्पति॑र्न ओहसे ॥

पदपाठः

तु॒रीय॑म् । नाम॑ । य॒ज्ञिय॑म् । य॒दा । करः॑ । तत् । उ॒श्म॒सि॒ ।
आत् । इत् । पतिः॑ । नः॒ । ओ॒ह॒से॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं यज्ञियं यज्ञसंबन्धिनं तुरीयं चतुर्थं नाम यदा करः करोषि तदुश्मसि कामयामहे आदिदनंतरमेव नामकामानन्तरमेव पतिः पालकः त्वं नोस्मानोहसे वहसि प्रापयसि । नक्षत्रनाम गुह्यंनाम प्रकाशं नामेति त्रीणि नामानि । सोमयाजीति तुरीयं नाम तच्चयज्ञियं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६