मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८१, ऋक् १

संहिता

आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥

पदपाठः

आ । तु । नः॒ । इ॒न्द्र॒ । क्षु॒ऽमन्त॑म् । चि॒त्रम् । ग्रा॒भम् । सम् । गृ॒भा॒य॒ ।
म॒हा॒ऽह॒स्ती । दक्षि॑णेन ॥

सायणभाष्यम्

हे इन्द्र महाहस्ती महाहस्तवान् त्वं तु तदानीमेव अस्मभ्यं दातुं नोस्मदर्थं क्षुमन्तं शब्दवन्तं स्तुत्यमित्यर्थः । चित्रं चायनीयं ग्राभं ग्राहकं ग्रहणार्हं वाधनं दक्षिणेन हस्तेन नु क्षिप्रं आसंगृभाय आभिमुख्येन संगृहाण ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७