मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८१, ऋक् २

संहिता

वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो॑भिः ॥

पदपाठः

वि॒द्म । हि । त्वा॒ । तु॒वि॒ऽकू॒र्मिम् । तु॒विऽदे॑ष्णम् । तु॒विऽम॑घम् ।
तु॒वि॒ऽमा॒त्रम् । अवः॑ऽभिः ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां विद्म हि जानीमः खलु । कीदृशमिति तुविकूर्मिं बहुकर्माणं तुविदेष्णं बहुप्रदेयं तुविमघं बहुधनं तुविमात्रं बहुप्रमाणं अवोभिर्युक्तम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७