न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् ।
भी॒मं न गां वा॒रय॑न्ते ॥
न॒हि । त्वा॒ । शू॒र॒ । दे॒वाः । न । मर्ता॑सः । दित्स॑न्तम् ।
भी॒मम् । न । गाम् । वा॒रय॑न्ते ॥
हे शूरेन्द्र त्वा त्वां दित्सन्तं दातुमिच्छन्तं देवाः नहि वारयन्ते ननिवारयन्ति । तथा मर्तासो मर्त्या अपि नवारयन्ते । भीमंन गां भयजनकं वृषभं यवसे प्रवृत्तमिव तं यथा वारयितुं न शक्नुवन्ति तद्वत् ॥ ३ ॥ प्रथमेपर्यायेच्छावाकशस्त्रेएतोन्विन्द्रमितितृचः तथाचसूत्रितं-एतोन्विन्द्रंस्तवामेशानंमानोअस्मिन्मघवन्निति ।