मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८१, ऋक् ४

संहिता

एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्व॑ः स्व॒राज॑म् ।
न राध॑सा मर्धिषन्नः ॥

पदपाठः

आ । इ॒त॒ । ऊं॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । ईशा॑नम् । वस्वः॑ । स्व॒ऽराज॑म् ।
न । राध॑सा । म॒र्धि॒ष॒त् । नः॒ ॥

सायणभाष्यम्

हे अस्मदीयाजनाः एतो आगच्छतैव नु क्षिप्रम् । किंकर्तुं स्तवामेन्द्रम् । कीदृशं तं वस्वोवसुनोधनस्य ईशानं स्वामिनं स्वराजं स्वयमेव राजमानं स्वर्गे राजमानं वा । नोस्मानिन्द्रेणानुगुहीतान् राधसा धनेन अन्योधनीनमर्धिषत् नबाधतां आढ्यानामस्मत्समानानामप्याढ्यत्वाय स्तवामेत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७