मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८१, ऋक् ५

संहिता

प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् ।
अ॒भि राध॑सा जुगुरत् ॥

पदपाठः

प्र । स्तो॒ष॒त् । उप॑ । गा॒सि॒ष॒त् । श्रव॑त् । साम॑ । गी॒यमा॑नम् ।
अ॒भि । राध॑सा । जु॒गु॒र॒त् ॥

सायणभाष्यम्

पूर्वमंत्रे स्तवामेत्युक्तं तदेव स्तोत्रमिन्द्रः प्रस्तोषत् प्रस्तुत्वा च उपगासिषत् उपगानं च करोतु । तदर्थं गीयमानं साम स्तोत्रं श्रवत् शृणोतु । राधसा धनेन च युक्तोस्मानभिजुगुरदभिगृणातु स्वीकुर्विति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७