मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८१, ऋक् ६

संहिता

आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥

पदपाठः

आ । नः॒ । भ॒र॒ । दक्षि॑णेन । अ॒भि । स॒व्येन । प्र । मृ॒श॒ ।
इन्द्र॑ । मा । नः॒ । वसोः॑ । निः । भा॒क् ॥

सायणभाष्यम्

हे इन्द्र नोस्मभ्यं आभराहृत्य दक्षिणेन स्ख्येन च हस्तेन उभाभ्यां हस्ताभ्यां अभिप्रमृश प्रयच्छेत्यर्थः । नोस्मान्वसोर्धनात् मानिर्भाक् मानिर्भांक्षीः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८