मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८१, ऋक् ७

संहिता

उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् ।
अदा॑शूष्टरस्य॒ वेदः॑ ॥

पदपाठः

उप॑ । क्र॒म॒स्व॒ । आ । भ॒र॒ । धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । जना॑नाम् ।
अदा॑शूःऽतरस्य । वेदः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वमुपक्रमस्व धनं प्रत्युपगच्छ प्रवृत्तो भव वा दातुम् । हे धृष्णो धर्षक शत्रूणां धृषता धृष्टेन चेतसा युक्तः सन् आभराहरच । कस्य धनमाहरेति उच्यते-जनानां मध्ये अदाशूष्टरस्य अत्यन्तमदातृतमस्य वेदोधनं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८