मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८१, ऋक् ८

संहिता

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒ः सनि॑त्वः ।
अ॒स्माभि॒ः सु तं स॑नुहि ॥

पदपाठः

इन्द्र॑ । यः । ऊं॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः ।
अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र योवाजोन्नं विप्रेभिर्मेधाविभिः सनित्वः संभजनीयः ते तवास्ति तं वाजमस्माभिर्याचितः सन् अस्मभ्यं वा सु सुष्ठु सनुहि देहि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८