मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८१, ऋक् ९

संहिता

स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः ।
वशै॑श्च म॒क्षू ज॑रन्ते ॥

पदपाठः

स॒द्यः॒ऽजुवः॑ । ते॒ । वाजाः॑ । अ॒स्मभ्य॑म् । वि॒श्वऽच॑न्द्राः ।
वशैः॑ । च॒ । म॒क्षु । ज॒र॒न्ते॒ ॥

सायणभाष्यम्

हे इन्द्र ते तव वाजाः अन्नानि अस्मभ्यं सद्योजुवः शीघ्रं गन्तारोभवन्तु । कीदृशास्ते विश्वचन्द्राः सर्वहिरण्योपेताः बहूनामाह्लादकावा अस्मदीया- श्च जनाः वशैः काभैरनेकैर्युक्ताः मक्षु शीघ्रं जरन्ते स्तुवन्ति ॥ ९ ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्चरः

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरविते माधवीये वेदार्थप्रकाशे ऋक्संहि- ताभाष्ये षष्ठाष्टके पंचमोध्यायः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८