मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८२, ऋक् २

संहिता

ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णवः॑ ।
पिबा॑ द॒धृग्यथो॑चि॒षे ॥

पदपाठः

ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ ।
पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥

सायणभाष्यम्

हे इन्द्र तीव्राः तीव्रमदाः क्षिप्रं मदकारिणइत्यर्थः । मादयिष्णवः मादनशीला मादनकारिणोवा इमे सोमासः सोमाः सुतासः त्वदर्थमभिषुताः तस्मादागहि अस्मदीयं यज्ञं प्रत्यागच्छ । आगत्यच तान् पिब । सोमपाने कारणमाह-त्वं यथा दधृक् धृष्टः तत्प्रीतौ प्रगल्भःसन् तान् ओचिषे समवैषि सेबसे ततस्तान्यथाकामंपिबेत्यर्थः । दधृगिति ञिधृषाप्रागल्भ्येइत्यस्मादृत्विग्दधृगित्यादिना क्विन्प्रत्ययान्तोनिपात्यते । ओचिषे उचसमवाये छान्दसेलेटिरूपम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः