मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८२, ऋक् ३

संहिता

इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।
भुव॑त्त इन्द्र॒ शं हृ॒दे ॥

पदपाठः

इ॒षा । म॒न्द॒स्व॒ । आत् । ऊं॒ इति॑ । ते॒ । अर॑म् । वरा॑य । म॒न्यवे॑ ।
भुव॑त् । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे ॥

सायणभाष्यम्

हे इन्द्र इषा सोमलक्षणेनान्नेन मन्दस्य मोदस्व हष्टोभव । उइत्यवधारणे । आदनन्तरमेव ते तव वराय शत्रुनिवारकाय मन्यवे क्रोधाय ससोमः अरमलं पर्याप्तोभवतु क्रोधशमने समर्थोभवतु । यद्वा सोमं पिबति तदा मन्युं त्यजतीत्यर्थः । किंच ते तव हृदे हृदये ससोमः शं शंकरः सुखकरो- भुवत् भवतु ॥ ३ ॥ तृतीये पर्याये आत्वशत्रवित्यनुरूपस्तृचः । सूत्रितंच-आत्वेतानिषीदतात्वशत्रवागहीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः