य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥
यः । इ॒न्द्र॒ । च॒म॒सेषु॑ । आ । सोमः॑ । च॒मूषु॑ । ते॒ । सु॒तः ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥
हे इन्द्र ते त्वदर्थं सुतोभिषुतो यः सोमः चमसेषु एतन्नामकेषु पात्रषु तथा चमूषु चमन्ति यजन्त्यत्रेति चम्वोग्रहाः तेषु चासर्वतोस्ति । अस्य तमेतं सोमं पिबेत् इदवधारणे पिबैव । कथमस्य सोमपानयोग्यता तत्राह-हे इन्द्र त्वमीशिषे तस्य त्वमेव ईश्वरो भवसि खलु । यतएवं ततः पिबेति समन्वयः । ईश ऎश्वर्ये लटि ईशःसइतीडागमः ॥ ७ ॥