दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् ।
वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥
दे॒वाना॑म् । इत् । अवः॑ । म॒हत् । तत् । आ । वृ॒णी॒म॒हे॒ । व॒यम् ।
वृष्णा॑म् । अ॒स्मभ्य॑म् । ऊ॒तये॑ ॥
हे देवाः देवानां स्वतेजसा सर्वतोदीप्यमानानां इत् एवार्थे युष्माकमेव महत् व्याप्तं मंहनीयंवा अवः पालनं यद्विद्यते तद्वृष्णां कामानां वर्षितॄणां युष्माकं तद्रक्षणं यजमानावयं आवृणीमहे समंतात्संभजामहे । किमर्थमस्मभ्यमूतये पूर्वमस्मभ्यमस्मदर्थमिति साधारण्येनोक्त्वा तद्विशिनष्टि ऊतयइति अस्माकं पालनायेति ॥ १ ॥