मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८३, ऋक् २

संहिता

ते नः॑ सन्तु॒ युज॒ः सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
वृ॒धास॑श्च॒ प्रचे॑तसः ॥

पदपाठः

ते । नः॒ । स॒न्तु॒ । युजः॑ । सदा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
वृ॒धासः॑ । च॒ । प्रऽचे॑तसः ॥

सायणभाष्यम्

ते देवाः वरुणः शत्रूणां निवारकः मित्रः सर्वेषां मित्रभूतः अर्यमा सततं गच्छन् एतन्नामकास्ते त्रयोदेवाः सदा सर्वदा सर्वेषु अहःसु नोस्माकं युजः सहायाः सन्तु भवन्तु । अग्निहोत्रादिकर्मणि इन्द्रादिदेवाः सहागमनादि यज्ञपरिसमापनान्तेषु साहाय्यं कुर्वन्त्वित्यर्थः । ततः प्रचेतसः प्रकृष्टज्ञानाः यद्वा चेतः स्तोत्रं शोभनस्तुतयस्तेदेवा वृधासो वर्धकाश्च अस्माकं धनादिदानेन वर्धयितारश्च सन्तु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः