वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म् ।
वा॒मं ह्या॑वृणी॒महे॑ ॥
वा॒मम् । नः॒ । अ॒स्तु॒ । अ॒र्य॒म॒न् । वा॒मम् । व॒रु॒ण॒ । शंस्य॑म् ।
वा॒मम् । हि । आ॒ऽवृ॒णी॒महे॑ ॥
हे अर्यमन्देव वामं वननीयं संभजनीयं धनं नोस्माकं अस्तु भवतु । हे वरुण शंस्यं शंसनीयं स्तुत्यं वामं धनमस्माकमस्तु । कुतः हिशब्दोहेतौ यस्मात्कारणात् वयं वामं धनं युष्मानावृणीमहे याचामहे इत्यर्थः तस्मान्नोस्त्वित्याशास्ते ॥ ४ ॥