मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८३, ऋक् ५

संहिता

वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः ।
नेमा॑दित्या अ॒घस्य॒ यत् ॥

पदपाठः

वा॒मस्य॑ । हि । प्र॒ऽचे॒त॒सः॒ । ईशा॑नासः । रि॒शा॒द॒सः॒ ।
न । ई॒म् । आ॒दि॒त्याः॒ । अ॒घस्य॑ । यत् ॥

सायणभाष्यम्

हे प्रचेतसः प्रकृष्टज्ञानाः शोभनस्तुतयोवा हे रिशादसः रिशतां हिंसतां शत्रूणामसितारः क्षेप्तारोदेवाः यूयं वामस्य वननीयस्य धनस्य ईशानास ईशानाः हिरवधारणे ईशानाएव स्वामिनएव भवथ तस्माद्युष्मान्याचामहे इत्यर्थः । ईशानाः ईशऎश्वर्ये अनुदात्तेत् तास्यनुदात्तेदिति स्वरे- णाद्युदात्तता भवति न संबुद्धिः । ततो हे आदित्याः अदितेः पुत्रादेवाः ईमेनं याचमानं मां तद्धनं प्राप्नोतु यद्धनमघस्य पापस्य संबन्धि विद्यते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः