मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८३, ऋक् ६

संहिता

व॒यमिद्व॑ः सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना ।
देवा॑ वृ॒धाय॑ हूमहे ॥

पदपाठः

व॒यम् । इत् । वः॒ । सु॒ऽदा॒न॒वः॒ । क्षि॒यन्तः॑ । यान्तः॑ । अध्व॑न् । आ ।
देवाः॑ । वृ॒धाय॑ । हू॒म॒हे॒ ॥

सायणभाष्यम्

हे सुदानवः शोभनदानाः हे देवाः क्षियन्तो गृहेष्वग्निहोत्रार्थं निवसन्तः अध्वन् सुपोलुक् अध्वनि समिदाहरणार्थं यान्तो गच्छन्तोपि वयं वइत् युष्मानेव वृधाय हविर्भिर्वर्धनाय हूमहे आह्वयामः । यद्वा वयं गृहेषु गृहान्निर्गमनकाले मार्गेषु च वृधाय अस्माकं धनादिभिर्वर्धनायाह्वयामः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः