मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८३, ऋक् ७

संहिता

अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम् ।
इ॒ता मरु॑तो॒ अश्वि॑ना ॥

पदपाठः

अधि॑ । नः॒ । इ॒न्द्र॒ । ए॒षा॒म् । विष्णो॒ इति॑ । स॒ऽजा॒त्या॑नाम् ।
इ॒त । मरु॑तः । अश्वि॑ना ॥

सायणभाष्यम्

हे इन्द्र विष्णो मरुतः हे अश्विना अश्विनौ हे इन्द्रादयोदेवाः सजात्यानां समानायां जातौ भवाः सजात्याः भ्रातृमित्रादयः तेषामेषां मध्ये नोस्मान् अधीत यूयं स्तुत्द्यतया अधिगच्छत ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः