मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८३, ऋक् ८

संहिता

प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या ।
मा॒तुर्गर्भे॑ भरामहे ॥

पदपाठः

प्र । भ्रा॒तृ॒ऽत्वम् । सु॒ऽदा॒न॒वः॒ । अध॑ । द्वि॒ता । स॒मा॒न्या ।
मा॒तुः । गर्भे॑ । भ॒रा॒म॒हे॒ ॥

सायणभाष्यम्

हे सुदानवः शोभनदाना आदित्याः अधाथ अस्मत्प्रत्यागमनानन्तरं वयं समान्या समान्येन सुपोड्यादेशः । पूर्वं सर्वेषां देवानां सांहत्येन ततोद्विता द्विधा द्विप्रकारेण च मातुरदितेर्गर्भे संजातं यद्युष्माकं भ्रातृत्वं विद्यते तदिदानीं वयं प्रभरामहे प्रभरणमुच्चारणं प्रकाशनंवा उच्चारयामः प्रकाशया- मोवा । सर्वेषां देवानां द्वंद्वशोजननं तैत्तिरीयके स्पष्टमभिहितं-अदितिः पुत्रकामा साध्येभ्योदेवेभ्यो ब्रह्मौदनमपचदित्युपक्रम्य तस्यैपूषाचार्यमाचा- जायेतामित्यादिना ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः