मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८४, ऋक् १

संहिता

प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम् ।
अ॒ग्निं रथं॒ न वेद्य॑म् ॥

पदपाठः

प्रेष्ठ॑म् । वः॒ । अति॑थिम् । स्तु॒षे । मि॒त्रम्ऽइ॑व । प्रि॒यम् ।
अ॒ग्निम् । रथ॑म् । न । वेद्य॑म् ॥

सायणभाष्यम्

हे यजमानाः प्रेष्ठं युष्माकं धनदानेन प्रियतमं अतिथिं युष्माभिरतिथिवत् पूज्यं यद्वा अत सातत्यगमने ऋतन्यञ्चीत्यादिना अतेरिथिन् सततं देवानां हविः प्रदातुं गच्छन्तं मित्रमिव सखायमिव प्रियं स्तोतुः प्रीणनकरं रथंन रथमिव वेद्यं वेदोधनं धनहितं लाभहेतुं यथा रथी रथेन धनं लभते तद्वत् स्तोतारोनेनधनं लभन्ते तादृशं धनलाभकार्५अणमग्निं वोयुष्मत्कर्मसिध्यार्थं स्तुषे काव्यउशना स्तौति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः