मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८४, ऋक् २

संहिता

क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता ।
नि मर्त्ये॑ष्वाद॒धुः ॥

पदपाठः

क॒विम्ऽइ॑व । प्रऽचे॑तसम् । यम् । दे॒वासः॑ । अध॑ । द्वि॒ता ।
नि । मर्त्ये॑षु । आ॒ऽद॒धुः ॥

सायणभाष्यम्

अधापिच देवासोदेवाः इन्द्रादयः यमग्निं मर्त्येषु मनुष्येषु द्विता द्विधान्यादधुः गार्हपत्याहवनीयात्मकत्वेन द्विधा निहितवन्तः । तत्रदृष्टान्तः-कविमिव प्रचेतसं प्रकृष्टज्ञानं कविं क्रान्तकर्माणं पुरुषं यथा द्विधा कार्यद्वयेऽन्यो नियोजयति तद्वत् । यद्वा दिवि पृथिव्यां च निहितवन्तः भूमौतु हविराहरणार्थम् । दिवितु हविः प्रदानार्थं इति द्वैधं विधानं कृतवन्तइत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः