मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८४, ऋक् ४

संहिता

कया॑ ते अग्ने अङ्गिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिम् ।
वरा॑य देव म॒न्यवे॑ ॥

पदपाठः

कया॑ । ते॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । ऊर्जः॑ । न॒पा॒त् । उप॑ऽस्तुतिम् ।
वरा॑य । दे॒व॒ । म॒न्यवे॑ ॥

सायणभाष्यम्

हे अंगिरः अंगिरसां वरिष्ठ यद्वा अंगति सर्वत्र गच्छतीत्यंगिराः तादृश हे ऊर्जोनपात् नपादित्यपत्यनाम अन्नस्यपुत्र हविर्भिर्वर्धमानत्वात् । यद्वा नपादिति नप्ता हविर्लक्षणस्यान्नस्य नप्तः-अग्नौप्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिरिति । वृष्टेरोषधयः ओषधीभ्यः अग्निरिति अन्नस्यनप्तः हे देव द्योतमानाग्ने वराय सर्वैर्वरणीयाय मन्यवे शत्रूनतिमन्यमानाय ते तुभ्यं कया कीदृश्या वाचा उपस्तुतिमुपस्तोत्रमहंभरेयं त्वं महान् खलु अहमल्पः तदर्थं स्तुतिं कुर्यामिति ऋषिरग्निं प्रतिवदति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः