मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८४, ऋक् ५

संहिता

दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो ।
कदु॑ वोच इ॒दं नमः॑ ॥

पदपाठः

दाशे॑म । कस्य॑ । मन॑सा । य॒ज्ञस्य॑ । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
कत् । ऊं॒ इति॑ । वो॒चे॒ । इ॒दम् । नमः॑ ॥

सायणभाष्यम्

ऋषिराग्निंप्रतिबूते हे सहसोयहो यहुरित्यपत्यनाम बलेन निष्पाद्यमानत्वात् बलस्यपुत्र हे अग्ने कस्य कीदृशस्य यज्ञस्य यज्ञवतो यजनीयदेववतो यजमानस्य मनसा युक्ताः सन्तो हवींषि तुभ्यं वयं दाशेम प्रयच्छेम पूजायां बहुवचनम् । किंच तुभ्यं इदंनमो हविर्नमस्कारंवा कत् कदावा वोचे वच्यादेशस्य लुङ्यात्मनेपदे उत्तमैकवचने रूपम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः