मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८४, ऋक् ७

संहिता

कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दम्पते ।
गोषा॑ता॒ यस्य॑ ते॒ गिरः॑ ॥

पदपाठः

कस्य॑ । नू॒नम् । परी॑णसः । धियः॑ । जि॒न्व॒सि॒ । द॒म्ऽप॒ते॒ ।
गोऽसा॑ता । यस्य॑ । ते॒ । गिरः॑ ॥

सायणभाष्यम्

हे दंपते गृहपते यदा गाहपत्ये वर्तसे तदा जायापतिस्वरूपोसि तस्माद्दंपतिशब्देनाग्निरभिधीयते । तथाविध हे अग्ने नूनमिदानीं कस्य कीदृशस्य जनस्य परीणसः बहूनि धियः कर्माणि जिन्वसि प्रीणयसि । यस्य ते तव संबन्धिन्योगिरः स्तुतयः गोसाता गोसातौ गवां लाभे भवन्ति खलु । तस्मात्त्वं कुत्र तिष्ठसि । अस्माकमिदानीं गवेच्छा प्रवर्तते । यद्वा हे अग्ने त्वमिदानीं कस्य कर्माणि प्रीणयसि नकस्यापीत्यर्थः । अस्माकमेव कर्माणि प्रीणयेतिभावः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः