मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८४, ऋक् ८

संहिता

तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ ।
स्वेषु॒ क्षये॑षु वा॒जिन॑म् ॥

पदपाठः

तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽक्रतु॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ ।
स्वेषु॑ । क्षये॑षु । वा॒जिन॑म् ॥

सायणभाष्यम्

सुक्रतुं शोभनप्रज्ञं सुकर्माणं वा आजिषु संग्रामेषु पुरोयावानं शत्रुहननार्थं पुरतएवगन्तारं वाजिनं बलवन्तं तं तादृशमग्निं यजमानाः स्वेषु आत्मीयेषु क्षयेषु गृहेषु मर्जयन्त निर्मथितमग्निमलंकुर्वन्ति परिचरन्तीति यावत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः