मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८५, ऋक् १

संहिता

आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
मध्व॒ः सोम॑स्य पी॒तये॑ ॥

पदपाठः

आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे नासत्या असत्यमनयोर्नास्तीति नासत्यौ तादृशौ हे अश्विना अश्विनौ युवं युवां मे मदीयं हवमाह्वानं श्रुत्वा यद्वा हवं हूयतेत्रेति हवोयज्ञः केवल- स्याधिकरणे अप् छान्दसः मदीयं यज्ञं प्रति मध्वः मदकरस्य सोमस्य पीतये पानाय तदर्थमागच्छतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः