मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८५, ऋक् ३

संहिता

अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू ।
मध्व॒ः सोम॑स्य पी॒तये॑ ॥

पदपाठः

अ॒यम् । वा॒म् । कृष्णः॑ । अ॒श्वि॒ना॒ । हव॑ते । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे वाजिनीवसू अन्नयुक्तधनौ अत्र इनिरनुवादार्थः । यद्वा वाजः वजनं क्रिया तद्वती वाजिनी तद्युक्तधनवन्तौ हे अश्विना अश्विनौ अयं कृष्णोनाम मंत्रद्रष्टाऋषिः वां युवां हवते स्तुतिभिराह्वयति । किमर्थं मध्वः सोमस्य पीतयइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः