मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८५, ऋक् ६

संहिता

गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना ।
मध्व॒ः सोम॑स्य पी॒तये॑ ॥

पदपाठः

गच्छ॑तम् । दा॒शुषः॑ । गृ॒हम् । इ॒त्था । स्तु॒व॒तः । अ॒श्वि॒ना॒ ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ इत्था इत्थमनेन प्रकारेण स्तुवतः युवयोः स्तोत्रं कुर्वतो दाशुषो हवींषि दत्तवतो यजमानस्य गृहंप्रति गच्छतं युवामागच्छतम् । किमर्थं मध्वः सोमस्य पीतयइति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः