मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८५, ऋक् ७

संहिता

यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू ।
मध्व॒ः सोम॑स्य पी॒तये॑ ॥

पदपाठः

यु॒ञ्जाथा॑म् । रास॑भम् । रथे॑ । वी॒ळुऽअ॑ङ्गे । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे वृषण्वसू वर्षणशीलधनवन्तौ अश्विनौ युवां वीड्वंगेवीळुर्दृढः दृढांगोपेते स्वरथेरासभं शब्दायमानं एतन्नामकमश्वं युंजाथां संयोजयताम् । किमर्थं मध्वः सोमस्य पीतयइति । रासभावश्विनोरिति रासभावेवाश्विनो रथस्यवाहनौ ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः