मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८५, ऋक् ८

संहिता

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना ।
मध्व॒ः सोम॑स्य पी॒तये॑ ॥

पदपाठः

त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ त्रिवन्धुरेण त्रिफलका संघट्टितेन त्रिवृता त्रिकोणेन यद्वा त्रिवृता त्रीणि कवचादिभिरावरणानि यस्य सतथोक्तः तेन रथेन अस्मद्यज्ञं प्रत्यायातं युवामागच्छतं च । शिष्टं गतम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः