मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८६, ऋक् २

संहिता

क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये ।
ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥

पदपाठः

क॒था । नू॒नम् । वा॒म् । विऽम॑नाः । उप॑ । स्त॒व॒त् । यु॒वम् । धिय॑म् । द॒द॒थुः॒ । वस्यः॑ऽइष्टये ।
ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥

सायणभाष्यम्

हे अश्विनौ विमनाः एतन्नामकऋषिः नूनं पुरा कथा कथं वां युवामुपस्तवत् कथमुपस्तौत् । तेन स्तुतौ युवं युवां वस्यइष्टये वस्योवसीयः प्रशस्तं धनं तस्याभिलषितस्य इष्टये अभिगमनाय यद्वावशिष्टधनस्यइष्टये प्राप्तये धियं बुद्धिं विमनसे ददथुः अदधाथां खलु । वस्यइति वसुमच्छब्दादी- यसुनि विन्मतोर्लुगिति लुक् ईयसुन् ईकारलोपश्छान्दसः । तादृशौ युवां विश्वकोहवतइति गतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः