मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८६, ऋक् ३

संहिता

यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये ।
ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥

पदपाठः

यु॒वम् । हि । स्म॒ । पु॒रु॒ऽभु॒जा॒ । इ॒मम् । ए॒ध॒तुम् । वि॒ष्णा॒प्वे॑ । द॒दथुः॑ । वस्यः॑ऽइष्टये ।
ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥

सायणभाष्यम्

हे पुरुभुजा पुरुभुजौ पुरूणां बहूनां धनादिदानेन भोजयितारौ यद्वा बहूनां स्तोतॄणां पालयितारौ अश्विनौ युवं हिष्मेत्यवधारणे युवामेव इममेधतुं एधतेरेधिवहोश्चतुरिति चतुप्रत्ययः चित्त्वादन्तोदात्तः । इमां धनादिवृद्धिं विष्णाप्वे विष्णोः सर्वेषां देवानां मुख्यत्वात्तद्ग्र्रहणे सर्वेदेवा गृहीताभ- वन्ति विष्ण्वादीन् कर्मणा व्याप्नोतीति विष्णापूः पृषोदरादिः । यद्वा विष्णुं सर्वग्रहेषु व्याप्तं सोमं दशापवित्रेण आपुनातीति तस्य चतुर्थी विष्णा- प्वइति । एतन्नामकेममपुत्रे पौत्रे वा पुत्राय पौत्राय वा इमां धनादिवृद्धिं ददथुः अदत्तम् । किमर्थं वस्यइष्टये वसीयसः प्रशस्तधनस्य इष्टये इच्छां पूरयितुम् । क्रियार्थोपपदस्येति चतुर्थी । तावामिति पूर्ववड्याख्येयम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः