मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८६, ऋक् ४

संहिता

उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्सन्त॒मव॑से हवामहे ।
यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥

पदपाठः

उ॒त । त्यम् । वी॒रम् । ध॒न॒ऽसाम् । ऋ॒जी॒षिण॑म् । दू॒रे । चि॒त् । सन्त॑म् । अव॑से । ह॒वा॒म॒हे॒ ।
यस्य॑ । स्वादि॑ष्ठा । सु॒ऽम॒तिः । पि॒तुः । य॒था॒ । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥

सायणभाष्यम्

हे अश्विनौ उतापिच वीरं कर्मणि समर्थं धनसां धनानां संभक्तारं ऋजीषिणं ऋजीषोपार्जितोभिषुतः सोमस्तद्वन्तं दूरेचित् दूरेएवसन्तं भवन्तं विनष्टमिव त्यं तं विष्णाप्वं अवसेस्माकं रक्षणाय हवामहे आह्वयामः । पुत्रोहि पितरं रक्षते । किंच यस्य पुत्रस्य पौत्रस्य वा सुमतिः शोभना स्तुतिः स्वादिष्ठा स्वादुतमा अतिशयेन देवानां स्वादुकारिणीत्यर्थः । तत्रदृष्टान्तः-पितुर्यथा पितुर्विश्वकस्य स्तुतिर्यथा देवानां प्रीतिकरी तद्वत् तस्मात्तमाह्वयामइतिशेषः । मानोइति गतार्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः