मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८६, ऋक् ५

संहिता

ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे ।
ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥

पदपाठः

ऋ॒तेन॑ । दे॒वः । स॒वि॒ता । श॒म्ऽआ॒य॒ते॒ । ऋ॒तस्य॑ । शृङ्ग॑म् । उ॒र्वि॒या । वि । प॒प्र॒थे॒ ।
ऋ॒तम् । स॒सा॒ह॒ । महि॑ । चि॒त् । पृ॒त॒न्य॒तः । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥

सायणभाष्यम्

ऋषिः सत्यप्रशंसां करोति । हे अश्विनौ देवोद्योतमानः सविता सर्वस्य स्वस्वकर्मणि प्रेरक एतन्नामकोदेवः ऋतेन सत्येन शमायते सायंकाले स्वकिरणसमूहं शमयति । ततोनन्तरं सएव सविता ऋतस्य सत्यस्य शृंगमग्रं उर्विया उरुविस्तीर्णं यथाभवति तथा प्रातःकाले विपप्रथे विशेषेण प्रथयति सर्वतो विस्तारयति । किंच पृतन्यतः पृतनामिच्छतः संयुयुत्सोः शत्रोर्महिचित् महदपि बलं ऋतं सत्यं ससाह स्वयमेवा- भिभवति । इत्थमृतं प्रशस्तमभूत् तस्माद्युवामपि तेन ऋतेन नोस्माकं सख्यानि मावियौष्टं अत्रागन्तुमश्वरश्मीन्मुंचतमिति ॥ ५ ॥

द्युम्नीवामिति षळृचं सप्तमं सूक्तम् । तथाचानुक्रम्यते-द्युम्नीषड्वासिष्ठोवा द्युम्नीकः प्रियमेधोवा प्रागाथं हेति । वसिष्ठपुत्रो द्युम्नीकऋषिः आंगिरसः प्रियमेधोवा । उभयत्र वाशब्दाद्यदोभावपि नस्यातां तदा प्रकृताआंगिरसः कृष्णएवऋषिः । अयुजोबृहत्यो युजःसतोबृहत्यः । अश्विनौ देवता । प्रातरनुवाके आश्विने क्रतौ बार्हतेछन्दसि आश्विनशस्त्रे चेदंसूक्तम् । सुत्रितंच-द्युम्नीवांयत्स्थइति बार्हतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः