मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८७, ऋक् २

संहिता

पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं नरा ।
ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥

पदपाठः

पिब॑तम् । घ॒र्मम् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ ।
ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । नि । पा॒त॒म् । वेद॑सा । वयः॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ मधुमन्तं मदवन्तं मदकारिणमित्यर्थः तादृशं रसवन्तं वा घर्मं घृक्षरणदीप्त्योः पात्रेषु क्षरन्तं सोमं पिबतम् । यद्वा मधुमंतं मधुर्मदकरः सोमः तद्वन्तं घर्मं महावीरपात्रगतंक्षीरं पिबतं सोमंचेति नतु साहचर्येण तदसंभवात् । हे नरा नरौ नेतारौ सर्वस्य हे अश्विनौ बर्हिः बर्हिषि यज्ञे आसीदतमुपविशतम् । यद्वा पूर्वं द्वितीयं पादं व्याख्याय प्रथमपादोव्याख्येयः । उपसदनानन्तरं सोमपानं युक्तमिति । किंच मनुषो मनुष्यस्य दुरोणे गृहभूतेस्मिन् देवयजने मंदसाना सोमपानेन मोदमानौ ता तौ पूर्वोक्तलक्षणौ युवां वेदसा पुरोडाशादिलक्षणेन हविषा सह वयः सोमरूपमन्नं आनिपातं आगत्य निपातं निपिबतम् । यद्वा वेदसा धनेन सह वयोस्माकमायुर्निपातं नितरां रक्षतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०