मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८७, ऋक् ३

संहिता

आ वां॒ विश्वा॑भिरू॒तिभि॑ः प्रि॒यमे॑धा अहूषत ।
ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥

पदपाठः

आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
ता । व॒र्तिः । या॒त॒म् । उप॑ । वृ॒क्तऽब॑र्हिषः । जुष्ट॑म् । य॒ज्ञम् । दिवि॑ष्टिषु ॥

सायणभाष्यम्

हे अश्विनौ प्रियमेधाः मेधोयज्ञः प्रियतमयज्ञा यजमानाः । यद्वा प्रियमेधा एतन्नामकऋषिः पूजायां बहुवचनं यष्टारः ऋषिर्वा विश्वाभिरूतिभिः सर्वैः पालनैः सह अथवा अवतिर्याञ्चाकर्मा सर्वैरभिलषितयाजनैः सहिता आहूषत आह्वासिषुः आह्वासीत् आत्मना पालनहेतुकत्वेन यद्वा- भिलषितदानाय वां आह्वयन्ति । ता तौ युवां वृक्तबर्हिषः आस्तरणार्थं छिन्नबर्हिषोयष्टुः संबन्धि जुष्टं सर्वैः देवैः सेवितं पर्याप्तं वा यज्ञं यजनीयं हविः प्रति दिविष्टिषु दिवसानामह्नामागमनेषु प्रातः कालेषु यज्ञेषुवा वर्तिः वर्तन्ते अत्रेति वर्तिर्गृहं तदुपायातं हविः स्वीकरणार्थं युवामाग- च्छतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०