मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८७, ऋक् ४

संहिता

पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।
ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥

पदपाठः

पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् ।
ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥

सायणभाष्यम्

हे अश्विनाश्विनौ मधुमन्तं रसवन्तं मदवन्तंवा सोमं युवां पिबतं ततोबर्हिः बर्हिषि यज्ञे सुमत् शोभनमासीदतम् । पश्चात् ववृधानौ सोमपानेन वृद्धौ ता तौ युवां दिवः द्युलोकात् सुष्टुतिं अस्माभिः क्रियमाणां शोभनां स्तुतिं उपगन्तं उपगच्छतम् । तत्रदृष्टान्तः-गौरविव यथा गौरमृगौ अन्यस्मा- द्देशादिरिणं तटाकादिकं प्रति जलपानार्थं आगच्छतस्तद्वत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०