मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८७, ऋक् ५

संहिता

आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥

पदपाठः

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ युवां प्रुषितप्सुभिः प्सुइति रूपनाम प्रुषप्लुष स्नेहनसेचनपूरणेषु । स्निग्धरूपैर्दीप्तरूपैरित्यर्थः । तादृशैः अश्वेभिः शीघ्रगामि- भिरश्वैः सह नूनमिदानीमायातं अस्मदीयं यज्ञं प्रत्यागच्छतम् । हे दस्रा दस्रौ दर्शनीयौ उपक्षयितारौ वा हे हिरण्यवर्तनी वर्तते अत्रेति वर्तनी रथः हिरण्मयरथौ हे शुभस्पती उदकस्य कल्याणस्यवा पालयितारौ हे ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ हे अश्विनौ युवां शीघ्रमागत्य सोमं पातं पिबतम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०