मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८७, ऋक् ६

संहिता

व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये ।
ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥

पदपाठः

व॒यम् । हि । वा॒म् । हवा॑महे । वि॒प॒न्यवः॑ । विप्रा॑सः । वाज॑ऽसातये ।
ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒ऽदंस॑सा । धि॒या । अश्वि॑ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ विपन्यवः स्तोतारः अतएव विप्रासो मेधाविनो वयं वाजसातये अन्नलाभाय वां हिरवधारणे युवामेव हवामहे स्तुतिभिराह्वयामः । ता तौ वल्गू वल्गनं कुश्लगमनं कुशलगमनशीलौ दस्रा दर्शनीयौ पुरुदंससा बहुकर्माणौ तौ युवां धिया अस्मदीयया स्तुत्या आहूतौ सन्तौ श्रुष्टी श्रुष्टीति क्षिप्रनाम क्षिप्रमस्मभ्यं धनादिदानायागतमागच्छतम् ॥ ६ ॥

तंवोदस्ममिति षळृचमष्टमंसूक्तं गौतमस्य नोधसआर्षम् । तथाचानुक्रम्यते-तंवोदस्मं नोधाइति । प्रागाथं हेत्युक्तत्वादेतदादिसूक्तत्रयं प्रागाथम् । इन्द्रोदेवता महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथाच पंचमारण्यके सूत्रितं-तं वोदस्ममृतीषहमानोविश्वासुहव्यइति । अग्निष्टोमे माध्यन्दिनसवने अच्छावाकशस्त्रे तंवोदस्ममिति प्रगाथःस्तोत्रियः । सूत्रितंच-तंवोदस्ममृतीषहं तत्त्वायामिसुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपा- विति । चातुर्विंशिकेहनि माध्मन्दिनसवने ब्राह्मणाच्छंसिनो वैकल्पिकः स्तोत्रियोयमेवप्रगाथः विषुवत्यपिमाध्यन्दिनसवने ब्राह्मणाच्छंसिशस्त्रे तंवोदस्ममृतीषहमिति नौधसस्य योनिः शंसनीया तंवोदस्ममृतीषहमभिप्रवः सुराधसमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०