तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः ।
अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥
तम् । वः॒ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसोः॑ । म॒न्दा॒नम् । अन्ध॑सः ।
अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । इन्द्र॑म् । गीः॒ऽभिः । न॒वा॒म॒हे॒ ॥
नोधाइन्द्रं स्तौति हे ऋत्विग्यजमानाः दस्मं दर्शनीयं ऋतीषहं ऋतयोबाधकाः शत्रवः तेषामभिभवितारं पुनः कीदृशं वसोर्वासयितुर्दुःरवस्य निवासयितुः यद्वा वसोः पात्रेनिवसतः तादृशस्य अंधसः सोमलक्षणस्यान्नस्य पानेन मंदानं मोदमानं वः यष्टृयष्टव्यत्वेन युष्मत्संबन्धिनं तं तादृशमिन्द्रं गीर्भिः स्तुतिलक्षणाभिर्वाग्भिरभिनवामहे नूस्तवने नुशब्दे अभिष्टुमः । कुत्रेति स्वसरेषु । अत्रयास्कः-स्वसराण्यहानि भवन्ति स्वयंसारीण्यपिवा स्वरादित्योभवति सएनानिसारयतीति । सूर्यकर्तृकेषु दिवसेषु वयमभिष्टुमः । तत्रदृष्टान्तः-वत्संन यथा धेनवो नवप्रसू- तिका धेनवः स्वसरेषु सुष्ठु अस्यन्ते प्रेर्यन्ते गावः अत्रेति स्वसराणि गोष्ठानि तेषु वत्समभिलक्ष्य शब्दयन्ति तद्वत् ॥ १ ॥