मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८८, ऋक् ३

संहिता

न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळवः॑ ।
यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥

पदपाठः

न । त्वा॒ । बृ॒हन्तः॑ । अद्र॑यः । वर॑न्ते । इ॒न्द्र॒ । वी॒ळवः॑ ।
यत् । दित्स॑सि । स्तु॒व॒ते । माऽव॑ते । वसु॑ । नकिः॑ । तत् । आ । मि॒ना॒ति॒ । ते॒ ॥

सायणभाष्यम्

हे इन्द्र बृहन्तो बलेन महान्तः अतएव वीळवः सर्वतोदृढाअपि अद्रयः पर्वताः त्वा त्वां नवरन्ते बलेन ननिवारयन्ति । अनिवारणमेवोत्तरार्धेन विवृणोति स्तुवते त्वद्विषयं स्तोत्रं कुर्वते मावते मत्सदृशायमादृशाय स्तोत्रे यद्वसु यद्धनं दित्स्सि त्वं तद्दातुमिच्छसि ते तव देयं तद्धनं नकिर्न- कश्चिदामिनाति आभिमुख्येन हिनस्ति । मीञ् हिंसायाम् । मीनातेर्निगमेइति ह्रस्वः । मावते युष्मदस्मड्भ्यां सादृश्यउपसंख्यानमिति वतुप् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११