मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८८, ऋक् ४

संहिता

योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।
आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥

पदपाठः

योद्धा॑ । अ॒सि॒ । क्रत्वा॑ । शव॑सा । उ॒त । दं॒सना॑ । विश्वा॑ । जा॒ता । अ॒भि । म॒ज्मना॑ ।
आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये॑ । व॒व॒र्त॒ति॒ । यम् । गोत॑माः । अजी॑जनन् ॥

सायणभाष्यम्

हे इन्द्र । क्रत्वा वृत्रहननादि कर्मणा अपिवा प्रज्ञानेन शवसा आत्मीयेन बलेन याद्धा शत्रूणां संप्रहारकोसि । उतापिच त्वं दंसना स्वकीयेन कर्मणा मज्मना मजमुजिशब्दार्थाः । मजमुजीचेति मजतिः शब्दार्थः । शत्रूणामाक्रोशनसमर्थेन बलेन विश्वा जाता सर्वाणि भुतजातानि अभिभवसि । उक्तार्थस्य विश्वाजातान्यभ्यस्मिमह्नेत्यादिषु इन्द्रेणैवोक्तत्वात् । एतादृशं त्वा त्वामर्कः अर्चपूजायां अर्चनीयः अयं मंत्रः यद्वा अर्कः देवानामर्चकः पूजकः अयं स्तोता ऊतये स्वरक्षणाय आववर्तति आवर्तयति आत्माभिमुख्ये करोतीत्यर्थः । वर्ततेर्लेटि बहुलंश्लुरडागमश्च । यं त्वां गोतमाः गोतमपुत्रानोधः प्रभृतयः अजीजनन् स्वयज्ञे प्रादुरबीभवन् तं त्वां अयं मंत्रः स्तोता वा आवर्तयति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११